बालमोदिनी cover art

बालमोदिनी

बालमोदिनी

By: सम्भाषणसन्देशः
Listen for free

About this listen

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.© 2026 सम्भाषणसन्देशः Hinduism Literature & Fiction Spirituality
Episodes
  • समस्यापरिहारः
    Feb 18 2026

    कश्चन जनः बह्वीभिः समस्याभिः ग्रस्तः आसीत् । समस्यानां परिहारस्य मार्गं ज्ञातुम् इच्छन् सः कस्यचित् महात्मनः आश्रमं गत्वा मार्गदर्शनं क्रियताम् इति प्रार्थयति । बहुधा पृष्टः अपि महात्मा किमपि उत्तरं न अवदत् । अन्ते महात्मनः मौनप्रतिस्पन्दनं सोढुम् अशक्नुवन् सः जनः अवदत् 'भवान् तु किमपि अवदन् मयि उपेक्षां दर्शयति । समस्यानां परिहाराय अहमेव मार्गं चिन्तयिष्यामि । शरीरे शक्तिः अस्ति । मयि बुद्धिमत्ता अपि अस्ति । तयोः उपयोगेन स्वयम् एव किमपि करिष्यामि' इति । तदा महात्मा - 'स्वसमस्याः स्वयमेव सम्मुखीकरिष्यामि इति उदितः भावः एव सर्वाः समस्याः परिहरिष्यति । एतं भावं पोषयन् अग्रे गच्छ' इति अवदत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Show More Show Less
    3 mins
  • गुडाकेशः लक्ष्मणः
    Feb 17 2026

    श्रीरामस्य वनवासकाले घटिता घटना एषा । लक्ष्मणः गुडाकेशः इति प्रसिद्धः इति तु वयं जानीमः । गुडाका नाम निद्रा । निद्रायाः ईशः गुडाकेशः । निशादेवीतः प्राप्तवरः एषः । किन्तु किञ्चन निबन्धम् आसीत् । तत् च यावती निद्रा लक्ष्मणेन त्यज्येत तावतीं निद्राम् अन्यः कश्चित् स्वीकुर्यात् इति । सीतायाः यादृशी पतिभक्तिः तादृशी एव पतिभक्तिः ऊर्मिलायाः अपि । अतः सा निद्रादेव्याः प्रस्तावं ससन्तोषम् अङ्गीकृतवती । तदनन्तरं चतुर्दश वर्षाणि यावत् निरन्तरं निद्रां कृतवती । लक्ष्मणः रात्रिसमये अपि जागरितः सन् सीतारामयोः रक्षणम् अकरोत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    During Rama’s exile, Lakshmana became known as Gudakesha — lord over sleep (gudaka meaning sleep). He had received a boon from the goddess of night to remain awake, but with one condition: the sleep he renounced must be borne by someone else. Just as Sita was devoted to her husband, so too was Urmila, Lakshmana’s wife, deeply devoted. She willingly accepted the goddess’s proposal and took upon herself all the sleep Lakshmana gave up. Thus, for fourteen years Urmila slept continuously, while Lakshmana remained ever wakeful, guarding Rama and Sita even through the nights.

    Show More Show Less
    3 mins
  • दुर्गुणानां दर्शनम्
    Feb 16 2026

    कस्यचन शिष्यस्य अध्ययनशीलतां सेवाभावं च दृष्ट्वा सन्तुष्टः गुरुः गुरुकुलात् निर्गमनकाले तस्मै एकं दिव्यं दर्पणं दत्तवान् । पुरतः स्थितस्य जनस्य मनोभावान् दर्शयितुं सामर्थ्यम् आसीत् तस्य दर्पणस्य । तस्य सामर्थ्यं परीक्षितुम् इच्छन् सः आदौ गुरोः पुरतः गृहीतवान् । तत्र मोहाहङ्कारक्रोधादयः तेन लक्षितः । ततः सः मित्राणां पुरतः, मातपित्रोः पुरतः च तं दर्पणं गृहीतवान् । तेन बहवः दुर्गुणाः दृष्टाः । एतस्मात् नितरां खिन्नः सः गुरुकुलं गत्वा स्वस्य अनुभवं निवेदितवान् । तदा गुरुः शिष्यस्य पुरतः दर्पणं गृहीतवान् । शिष्येण बहवः दुर्गुणाः दृष्टाः । तदा गुरुः अवदत् 'स्वीयान् दुर्गुणान् ज्ञात्वा तेषाम् अपसरणाय प्रयासः करणीयः भवता इति उद्देशेन मया अयं दर्पणः दत्तः आसीत् । स्वस्य दुर्गुणानां ज्ञाने अपसारणे च अवधानं भवतु' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    A guru, pleased with his disciple’s diligence and service, gifted him a divine mirror when he left the gurukula. This mirror could reveal the inner thoughts and qualities of anyone standing before it. The disciple tested it first on his guru and saw traits like delusion, pride, and anger. He then tried it on his friends and parents, and again saw many faults. Saddened, he returned to the gurukula and shared his experience. The guru then held the mirror before the disciple himself, and the disciple saw his own faults. The guru explained: ‘I gave you this mirror so that you may recognize your own shortcomings and strive to remove them. Focus on self-correction rather than judging others’.

    Show More Show Less
    3 mins
No reviews yet
In the spirit of reconciliation, Audible acknowledges the Traditional Custodians of country throughout Australia and their connections to land, sea and community. We pay our respect to their elders past and present and extend that respect to all Aboriginal and Torres Strait Islander peoples today.